horizontal rule

Herbert张律师欢迎您的访问。

梵语字母表-悉昙-元音字母符号-摩多点画 梵语字母表-悉昙-辅音字母符号-半体 悉昙 天城体 prajñāpāramita-hṛdayam sūtra grammar prajñāpāramita-hṛdayam sūtra Prajñā-Pāramitā-Heart Sutra Heart Sutra Sanskrit Heart Sutra

पातञ्जलयोगसूत्राणि

॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥

॥ प्रथमोऽध्यायः ॥ ॥ समाधि-पादः ॥

अथ योगानुशासनम् ॥ १.१॥ योगश्चित्तवृत्तिनिरोधः ॥ १.२॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३॥ वृत्तिसारूप्यमितरत्र ॥ १.४॥ वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ १.५॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १.८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१०॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ १.११॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १.१५॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १.१६॥ वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १.१७॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्) विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १.१९॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १.२०॥ तीव्रसंवेगानामासन्नः ॥ १.२१॥ मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ १.२२॥ ईश्वरप्रणिधानाद्वा ॥ १.२३॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ १.२५॥ (सर्वज्ञत्वबीजम्) स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १.२६॥ तस्य वाचकः प्रणवः ॥ १.२७॥ तज्जपस्तदर्थभावनम् ॥ १.२८॥ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९॥ व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ १.३०॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १.३२॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ १.३३॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ १.३५॥ विशोका वा ज्योतिष्मती ॥ १.३६॥ वीतरागविषयं वा चित्तम् ॥ १.३७॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ १.३८॥ यथाभिमतध्यानाद्वा ॥ १.३९॥ परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ १.४०॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ १.४१॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ १.४२॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५॥ ता एव सबीजः समाधिः ॥ १.४६॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७॥ ऋतम्भरा तत्र प्रज्ञा ॥ १.४८॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ १.४९॥ तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५०॥ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥

॥ द्वितीयोऽध्यायः ॥ ॥ साधन-पादः ॥

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ २.१॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २.२॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ २.३॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ २.४॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ २.५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ २.६॥ सुखानुशयी रागः ॥ २.७॥ दुःखानुशयी द्वेषः ॥ २.८॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ २.९॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २.१०॥ ध्यानहेयास्तद्वृत्तयः ॥ २.११॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ २.१२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २.१३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ २.१४॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ २.१५॥ हेयं दुःखमनागतम् ॥ २.१६॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ २.१७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ २.१८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ २.१९॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २.२०॥ तदर्थ एव दृश्यस्यात्मा ॥ २.२१॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २.२२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २.२३॥ तस्य हेतुरविद्या ॥ २.२४॥ तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २.२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥ २.२६॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २.२७॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २.२८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २.२९॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ २.३०॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २.३१॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ २.३२॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ २.३३॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २.३४॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ २.३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २.३६॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २.३७॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २.३८॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ २.३९॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ २.४०॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ २.४१॥ सन्तोषादनुत्तमसुखलाभः ॥ २.४२॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ २.४३॥ स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ २.४४॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ २.४५॥ स्थिरसुखम् आसनम् ॥ २.४६॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २.४७॥ ततो द्वन्द्वानभिघातः ॥ २.४८॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ २.४९॥ बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ २.५०॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ २.५१॥ ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥ धारणासु च योग्यता मनसः ॥ २.५३॥ स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ २.५४॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ २.५५॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ॥

॥ तृतीयोऽध्यायः ॥ ॥ विभूति-पादः ॥

देशबन्धश्चित्तस्य धारणा ॥ ३.१॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥ त्रयमेकत्र संयमः ॥ ३.४॥ तज्जयात्प्रज्ञालोकः ॥ ३.५॥ तस्य भूमिषु विनियोगः ॥ ३.६॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥ परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥ प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ ३.२१॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ ३.२२॥ मैत्र्यादिषु बलानि ॥ ३.२३॥ बलेषु हस्तिबलादीनि ॥ ३.२४॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५॥ भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६॥ चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७॥ ध्रुवे तद्गतिज्ञानम् ॥ ३.२८॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३०॥ कूर्मनाड्यां स्थैर्यम् ॥ ३.३१॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२॥ प्रातिभाद्वा सर्वम् ॥ ३.३३॥ हृदये चित्तसंवित् ॥ ३.३४॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३.३५॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३.३८॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३.३९॥ समानजयाज्ज्वलनम् ॥ ३.४०॥ (समानजयात्प्रज्वलनम्) श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ३.४१॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूल- समापत्तेश्चाकाशगमनम् ॥ ३.४२॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ३.४३॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ३.४४॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ३.४५॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ३.४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ३.४७॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ३.४८॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ३.४९॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ३.५०॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ३.५१॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ३.५२॥ जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ३.५३॥ तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥ ३.५४॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ३.५५॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः ॥

॥ चतुर्थोऽध्यायः ॥ ॥ कैवल्य-पादः ॥

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ ४.१॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४.२॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ४.३॥ निर्माणचित्तान्यस्मितामात्रात् ॥ ४.४॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ४.५॥ तत्र ध्यानजमनाशयम् ॥ ४.६॥ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ४.७॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ४.८॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ४.९॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥ ४.१०॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ४.११॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ ४.१२॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ ४.१३॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ ४.१४॥ वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ ४.१५॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४.१६॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ ४.१७॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४.१८॥ न तत्स्वाभासं दृश्यत्वात् ॥ ४.१९॥ एकसमये चोभयानवधारणम् ॥ ४.२०॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ ४.२१॥ चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ ४.२२॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४.२३॥ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ ४.२४॥ विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ ४.२५॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ ४.२६॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ ४.२७॥ हानमेषां क्लेशवदुक्तम् ॥ ४.२८॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ ४.२९॥ ततः क्लेशकर्मनिवृत्तिः ॥ ४.३०॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ४.३१॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ४.३२॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ४.३३॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ४.३४॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ॥ ॥ इति श्री पातञ्जल-योग-सूत्राणि ॥

更多阅读:

梵语字母表-悉昙

Sanskrit Transliteration Hindi Transliteration 梵语音译(图)

心经悉昙梵文 大悲咒梵文-悉昙

梵文药师咒悉昙解析

Prajna Paramita Hrdya Sutram - Heart Sutra Sanskrit Sūtra du Cœur 心经-玄奘 灵根育孕源流出 心性修持大道生-西游记-培训网

梵语千字文

培训网站内导航 - 网页索引 - A

Herbert张律师感谢您访问本站。